Exercise I

I. Write the Sanskrit Vowels?  
अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, लृ, ए, ऐ, ओ, औ   
II. Write the Sanskrit consonants?  
क् ख् ग् घ् ङ् च् छ् ज् झ् ञ् ट् ठ् ड् ढ् ण् त् थ् द् ध् न् प् फ् ब् भ् म् य् र् ल् व् श् ष् स् ह्
III. What are the hard consonants?
क् ख् च् छ् ट् ठ् त् थ् प् फ्  
IV  What are the soft consonants?
ग, घ, ङ, ज, झ, ञ, ड, ढ, ण, द, ध, न, ब, भ, म  
V.  Join the following groups of letters:  
न् + अ  = न, प् + आ = प, ज् + इ = जि,   द् + ई = दी, श् + उ = शु,   भ् + ऊ = भू   स् + ऋ = सृ, त् + ॠ = तॄ, क् + लृ = क्लृ, य् + अ = य, व् + आ = वा, ङ् + इ = ङि   ष् + ई = षी, र् + उ = रु, र् + ऊ = रू, म् +  ऋ = मृ, ग् + ए = गे, घ् + ओ = घो   द् + औ = दौ, थ् + ऐ = थै, च् + इ = चि, ह् + आ = हा, श् + ई = शी, द् + ए = दे
VI. Write the following in Sanskrit letters:  
bhūmāvupaviśāmi – भूमावु्पविशामि। snāyuḥ - स्नायु:। jñānam - ज्ञानम्। kṣetrāṇi - क्षेत्राणि। aṅgāt - अङ्गात्। udyāne - उद्याने। rohanti - रोहन्ति। arthābhyām -अर्थाभ्याम्। śāstraiḥ - शास्त्रै:। sarvadā -सर्वदा। krīṇīvaḥ -क्रीणीव:। dṛśyate -दृश्यते। asti -अस्ति। andhakāreṇa –अन्धकारेण। ratna -रत्न। atra - अत्र। tyakta -त्यक्त। tiṣṭhāmi -तिष्ठामि। bhramati -भ्रमति। aśva -अश्व। baddha -बद्ध। sa na jānāti -स न जानाति। tena suhṛdā -तेन सुह्र्दा। rakṣitaḥ -रक्षित:। mayā dattam -मया दत्तम्। tvayā dṛṣṭam -त्वया दृष्टम्। yuṣmābhiruktam –युष्माभिरुक्तम्।

Exercise 2

II. Conjugate the following in the present tense, active voice.
लट् लकारः (नी)
नयति नयतः नयन्ति
नयसि नयथः नयथ
नयामि नयावः नयामः
लट् लकारः (वस्)
वसति वसतः वसन्ति
वससि वसथः वसथ
वसामि वसावः वसामः
लट् लकारः (द्रु)
द्रवति द्रवतः द्रवन्ति
द्रवसि द्रवथः द्रवथ
द्रवामि द्रवावः द्रवामः
लट् लकारः (बुध्)
बोधति बोधतः बोधन्ति
बोधसि बोधथः बोधथ
बोधामि बोधावः बोधामः
लट् लकारः (स्मृ)
स्मरति स्मरतः स्मरन्ति
स्मरसि स्मरथः स्मरथ
स्मरामि स्मरावः स्मरामः)

III. Translate the following into English:
सरामि - I go. त्यजन्ति - They abandon. जीवाम: - We all live. शंसत: - Those two praise. पचसि - You cook. रक्षथ - You all protect. खादावः - We two eat. वदति - He speaks. रोहथ: -You two grow. कर्षन्ति - They draw. खनामि - I dig चराम: - We move. जयत: - Those two conquer. जीवसि - You live. दहाम: - We burn. नमति - He salutes. नयथ - You all lead. स्मराव: - We two remember. वसामि - I dwell. चलन्ति - They move. धावत: - Those two run. पचन्ति - They cook. बोधति - He knows. वपथ - You all sow. भवसि - You are/become. यजत: - Those two worship. वहाम: - We all carry/flow. व्रजाव: - We two go.

IV. Translate the following into Sanskrit
We worship – यजाम:। You two move - चरथ:। He conquers - जयति।They grow - रोहन्ति । I sow - वपामि। We two abandon - त्यजाव: ।Thou salutest - नमसि।They two remember - स्मरत:। They cook - पचन्ति । I fall - पतामि। He draws - कर्षति। You two dig - खनथ:।They know - बोधन्ति। We two become - भवाव:। Thou eatest - खादसि। They two move - चरत:। We protect - रक्षाम:। You live - जीवसि। He leads - नयति। We go - व्रजाम:, सराम:। You two praise - शम्सथ:।They melt - द्रवन्ति । I burn - दहामि। Thou dwellest - वससि। They two speak - वदत:। We two run - द्र्वाव:। धावव:। You go - व्रजसि। सरसि। He carries - वहति। I cook - पचामि। You two eat - खादथ:।

Exercise 3

II. Translate the following into English:
(1) काकः फलानि खादति । The crow eats the fruits.
(2) जलम् द्रवति । The water flows.
(3) दुःखम् स्मरतः ।Those two remember sorrow.
(4) अश्वाः पर्वतम् प्रति धावन्ति । The horses run towards the mountain.
(5) नृपः आचारम् शंसति । The king praises the conduct.
(6) जनाः जीवन्ति । People live.
(7) देशम् त्यजावः । We two abandon the countre.
(8) ग्रामं सर्वतः वृक्षाः रोहन्ति । The trees grow on all sides (in the/of the) village.
(9) कूपम् निकषा दासौ वदतः। Two sevants speak near the well.
(10) कनकं विना शरीरं जीवति । The body lives without gold.
(11) शीलम् बोधामि । I know character.
(12) सुखम् दुःखम् जयति । Happiness conquers sorrow.
(13) नरः इन्धनम् वहति ।The man carries the fuel.
(14) कपोतः करम् त्यजति । The pigeon abandons the hand.
(15) पर्वतम् परितः कमलानि रोहन्ति । Lotuses grow around the mountain.
(16) जनः अन्नम् पचति । The person cooks the food.
(17) अश्वाः तृणम् खादन्ति । The horses eat the grass.
(18) पात्रे अन्तरा कपोतः पत्रम् त्यजति । The pigeon abandons the leaf between the two vessels.
(19) मेघाः सरन्ति । The clouds move.
(20) धिक् बालम् ।Fie on the child.
(21) अन्नम् अन्तरेण कमलम् रोहति । The lotus grows without food.
(22) नरः तृणम् वपति । The man sows the grass.
(23) पर्वतम् उभयतः नृपः वृक्षान् दहति । The king burns trees on both sides of the mountain.
(24) अनु नृपम् दासः व्रजति । The servant goes after the king.
(25) अनु शास्त्रम् बालौ नृपम् नमतः । The two boys bow to the king according to the sacred precepts.
(26) स्थानम् अभितः दासः फलानि पचति । The servant cooks the fruits near the place.
(27) वनम् समया वसामः । We live near the forest.
(28) अति कनकम् सुखम् । Happiness is above gold.
(29) उप देशम् नृपः । The king is below the country.

IV. Join the sandhis in the following:
नृपः जयति = नृपो जयति। बालाः धावन्ति = बाला धावन्ति। तृणम् खादति = तॄणं खादति । नरः त्यजति = नरस्त्यजति । जनाः चलन्ति = जनाश्चलन्ति । बालः जनम् स्मरति = बालो जनं स्मरति। अश्वः अन्नम् खादति = अश्वोऽन्नं खादति । ग्रामम् अभितः वृक्षाः रोहन्ति = ग्राममभितो वृक्षा रोहन्ति।

IV. Translate the following into Sanskrit.
1. Trees grow near the well.वृक्षाः कूपम् अभि/निकषा रोहन्ति। = वृक्षा कूपमभि/कूपं निकषा रोहन्ति।
2. The piegeon becomes a crow. कपोतः काकम् भवति। = कपोतः काकं भवति ।
3. The king conquers the country. नृपः देशम् जयति । = नृपो देशं जयति ।
4. Two horses eat grass. अश्वौ तृणम् खादतः । = अश्वौ तृणं खादतः। 5. The servant draws the boys. दासः बालान् कर्षति । = दासो बालान् कर्षति ।
6. Persons carry the vessels. जना: पात्राणि वहन्ति ।
7. We live without happiness. सुखम् विना जिवामः। = सुखं विना जिवामः ।
8. Trees carry leaves.वृक्षाः पत्राणि वहन्ति।
9. On both sides of the well boys burn the fuel. बालाः कूपम् उभयतः इन्धनम् दहन्ति। = बालाः कूपमुभयत इन्धनं दहन्ति।
10. Clouds move towards the mountain.मेघाः पर्वतम् प्रति चलन्ति । = मेघाः पर्वतं प्रति चलन्ति।
11. The hand protects the body. करः शरीरम् रक्षति । = करः शरीरं रक्षति/करश्शरीरं रक्षति ।
12. Water falls on all sides of the village.ग्रामम् सर्वतः जलम् पतति। = ग्रामं सर्वतो जलं पतति।
13. Sacred percepts lead men to happiness.शास्त्राणि नरान् सुखम् प्रति नयन्ति । = शास्त्राणि नरान् सुखं प्रति नयन्ति।
14. Fie on the crows.धिक् काकान् ।
15. Between the two trees water flows.वृक्षौ अन्तरा जलम् वहति । = वृक्षौ अन्तरा जलं वहति।
16. Persons salute the king. जनाः नृपम् नमन्ति । = जना नृपं नमन्ति।
17. I praise the lotus. कमलम् शंसामि। = कमलं शंसामि।
18. According to (his) character, the king protects the people (persons). नृपः अनु शीलम् जनान् रक्षति। = नृपोऽनु शीलं जनान् रक्षति।
19. You two leave the place.स्थानम् त्यजथः। = स्थानं त्यजथः।
20. Character (is) superior to (=above) gold. शीलम् अति कनकम्। = शीलमति कनकम्।
21. The servant (is) inferior to (=below) the king. दासः उप नृपम् । = दास उप नृपम्।


Exercise 4

II. Translate the following into English:
1. नृपः आचारं निन्दति। The king blames the conduct.
2. हृदं परितः कुसुमानि रोहन्ति। The flowers grow all around the lake.
3. शरीरं नश्यति। Body perishes.
4. दासो गजं पुष्यति। The servant nourishes the elephant.
5. प्रासादमभितो नृत्यामः। We dance in front of the palace.
6. नरः श्राम्यति जलं च पिबति। The man wearies and drink water.
7. जनश्चन्द्रं पश्यति तुष्यति च। The person sees the moon and is pleased.
8. पत्राणि भ्रश्यन्ति। The leaves fall.
9. नृपो दासान् क्षाम्यति। The king fogives the servants.
10. हृदं निकषा बाला दीव्यन्ति। Thw children play near the lake.
11. कुसुमं जिघ्रामि। I smell the flower.
12. गजा धमन्ति। The elephants blow.
13. तृणं करं विध्यति। Grass pierces the hand.
14. दासौ धनं हरतः। The two servants take away the wealth.
15. हृदं सर्वतो वृक्षास्तिष्ठन्ति। On all sides of the lake there are trees
16. भ्राम्यामः। We all roam / err.
17. माद्यथः। You two are glad.
18. शाम्यथ। You all are quiet.
19. दशति। It bites.
20. बालाः श्राम्यन्ति मुह्यन्ति च। Children get weary and faint.
21. धनमन्तरेण जीवनं नश्यति। Without wealth life perishes.
22. कुसुमे यच्छाव:। We two give two flowers.
23. बाला नृत्यन्ति नृपश्च सीदति। Children dance and the the king sits.
24. दास: कमलमस्यति। The servant throws the lotus.
25. पात्रं गूहसि। You hide the vessel.
26. अश्वं यच्छामि अश्वश्च शाम्यति। I restrain the horse and the horse becomes quiet.
27. शीर्षम् नमति। He bows the head.
28. कपोत: कुसुमं हरति। The pigeon takes away the flower.

III. Conjugate the following in the present tense active voice

IV. Translate the following into English:
1. I throw fuel. इन्धनम् अस्यामि।= इन्धनमस्यामि।
2. Two men are dancing near the well. नरौ कूपं समया नृत्यत:।
3. People run to the palace. जनाः प्रासादम् प्रति धावन्ति।= जनाः प्रासादं प्रति धावन्ति।
4. The elephant eats leaves, drinks water and is pleased. गजः पत्राणि खादति जलम् पिबति तुष्यति च । = गजः पत्राणि खादति जलं पिबति तुष्यति च।
5. Pigeons do not bite. कपोताः न दशन्ति। = कपोता न दशन्ति।
6. Two servants hide the fruits and the food. दासौ फलानि अन्नम् च गूहतः। दासौ फलानि अन्नं च गूहत:।
7. I play & I am glad. क्रीडामि (दीव्यामि) माद्यामि च। 8. We do not praise wealth. धनम् न शंसामः।= धनं न शंसामः।
9. You two smell the flower. पुष्पम् जिघ्रथ:। = पुष्पं जिघ्रथ:।
10. They stand on all side of the village. ग्रामम् सर्वत: तिष्ठन्ति। = ग्रामं सर्वतस्तिष्ठन्ति ।
11. Men dig the place & carry the gold away. जनाः स्थानम् खनन्ति कनम् हरन्ति च । = जनाः स्थानं कनकं हरन्ति च ।
12. You are weary & you sit. श्राम्यसि सीदसि च ।
13. The horses are not quiet. अश्वाः न शाम्यन्ति । = अश्वा न शाम्यन्ति ।
14. The king is not pleased. नृपः न तुष्यति। = नृपो न तुष्यति।
15. The crow pierces the fruit. काक: फलम् विध्यति ।= काक:फलं विध्यति ।
16. The boys faint. बाला: मुह्यन्ति ।= बाला मुह्यन्ति।
17. The man blames the two servants. नर: दासौ निन्दति ।= नरो दासौ निन्दति ।
18. Life without happiness becomes misery. जीवनम् सुखम् विना दु:खम् भवति।= जीवनं सुखं विना दु:खं भवति ।
19. We see the moon. चन्द्रम् च पश्याम:।= चन्द्रं पश्याम:।
20. Elephants live on both side of the lake. गजा: हृदम् उभयतः जीवन्ति ।= गजा हृदमुभयतो जीवन्ति ।

Exercise 5

II. Translate the following into English: 1. सुखमिच्छामि। I wish (for) happiness.
2. वीराय कुसुमानि यच्छति नृपः। The king gives flowers to the hero.
3. शृगालो बालं दशति। The jackal bites the boy.
4. कराभ्यां जलं स्पृशसि। You touch the water with your hands.
5. भारेण दासः श्राम्यति। The servant tires due to the load.
6. अनु तीरं हंसश्चलति। The swan moves along the (river) bank.
7. जनैः सह गृहं गच्छामि। I go to the house along with people.
8. भूषणैस्तुष्यति नरः। The man is satisfied with ornaments.
9. शरीरं लिम्पथः। You two anoint the body.
10. जलेन विना कमलानि न रोहन्ति। ( The lotuses do not grow without water.
11. करेण दासं तुदसि। (You stike the servant with hand.
12. रत्नानि विन्दति। He finds jewels.
13. जलेन कुसुमानि सिञ्चामः। We sprinkle the flowers with water.
14. अनिलो वृक्षान् लुम्पति। The wind breaks the trees.
15. तृणेन गजान् पुष्यामि I feed the elephants with grass.
16. आचारेण बालं निन्दति। He censures the child due to (his) conduct.
17. चन्द्रं बालेभ्यो दिशन्ति। They show the moon to the children.
18. अन्नाय गृहम् गच्छामि। I go to the house for food.
19. हंसौ हृदं विशत:। The two swans enter the lake.
20. प्रासादं निकषा वीरो वसति। The hero lives near the palace.
21. इन्धनाय दासा वृक्षं कृन्तन्ति। The servants cut the tree for fuel.
22. सुखेन नरो नृत्यति। Man dances with happiness.
23. देशाय वीरो गृहं त्यजति । The hero leaves home for the sake of the country.
24. आचार: सुखं सृजति । Conduct create happiness.
25. दासं पृच्छति नरः। The man asks the servant.
26. दुःखेन रत्नानि क्षिपावः। We two throw the jewels out of sorrow.
27. कपोतान् मुञ्चथः। You two release the pigeons.
28. करेण लिखामि। I write with the hand.
29. गृहमभितः कृषन्ति जनाः। The people plough near the house.
30. वीराय नम:। Salutations to the brave.
31. अलं धनेन। Enough with wealth.

III. Conjugate the following in the present tense active voice
लट् लकारः (ह्वे,भ्वादि-गणः )
पश्यति पश्यतः पश्यन्ति
पश्यसि पश्यथः पश्यथ
पश्यामि पश्यावः पश्यामः
लट् लकारः (ध्मा; भ्वादि-गणः)
धमति धमतः धमन्ति
धमसि धमथः धमथ
धमामि धमावः धमामः
लट् लकारः (स्था,भ्वादि-गणः )
तिष्ठति तिष्ठतः तिष्ठन्ति
तिष्ठसि तिष्ठथः तिष्ठथ
तिष्ठामि तिष्ठावः तिष्ठामः
लट् लकारः (शम्, दिवादि-गणः )
शाम्यति शाम्यतः शाम्यन्ति
शाम्यसि शाम्यथः शाम्यथ
शाम्यामि शाम्यावः शाम्यामः
लट् लकारः (दिव्,दिवादि-गणः )
दीव्यति दीव्यतः दीव्यन्ति
दीव्यसि दीव्यथः दीव्यथ
दीव्यामि दीव्यावः दीव्यामः
लट् लकारः (व्यध्, दिवादि-गणः )
विध्यति विध्यतः विध्यन्ति
विध्यसि विध्यथः विध्यथ
विध्यामि विध्यावः विध्यामः


IV. Translate the following into English:
1. I give fruits to the two servants. दासाभ्याम् फलानि यच्छामि ।= दासाभ्यां फलानि यच्छामि।
2. Thou goest to the forest for flowers. कुसुमेभ्यः वनम् गच्छसि ।= कुसुमेभ्यो वनं गच्छसि ।
3. He is glad by character. सः आचारेण माध्यति ।= स आचारेण माध्यति ।
4. Misery breaks life. दुखम् जीवम् लुम्पति ।= दुखं जीवनं लुम्पति।
5. Owing to the wind lotuses perish. अनिलेन कमलानि नश्यन्ति ।
6. The jackal finds food. शृगालः अन्नम् विन्दति ।= शृगालोऽन्नं विन्दति।
7. The two men call the servant. नरौ दासम् ह्वयतः ।= नरौ दासं ह्वयतः ।
8. Through happiness the boys laugh & dance. बालाः सुखेन हसन्ति नृत्यन्ति च ।= बालाः सुखेन हसन्ति नृत्यन्ति च ।
9. The hero shows jewels to the king. वीरः नृपाय रत्नानि दिशति ।= वीरो नृपाय रत्नानि दिशति ।
10. He sees the jackal & runs (away). शृगालम् पश्यति धावति च । = शृगालं पश्यति धावति च ।
11.Due to (his) conduct, he leaves (abandons) the house. आचरेण गृहम् त्यजति । = आचरेण गृहं त्यजति ।
12. For the sake of wealth men plough, carry burdens, dig the mountains and leave (their) country. धनाय जनाः कृषन्ति भारान् वहन्ति पर्वतान् खनन्ति देशम् त्यजन्ति च । = धनाय जनाः कृषन्ति, भारान् वहन्ति, पर्वतान् खनन्ति, देशं त्यजन्ति च ।
13. Owing to the wind, the fruits fall. अनिलेन फलानि पतन्ति ।= अनिलेन फलानि पतन्ति ।
14. We sit near the bank. तीरम् निकषा सीदामः । = तीरं निकषा सीदामः ।
15. On all side of the house, jackals roam. गृहम् परित: शृगालाः भ्राम्यन्ति ।= गृहं परित: शृगाला भ्राम्यन्ति ।
16. Clouds emit water. मेघाः जलम् सृजन्ति ।= मेघा जलं सृजन्ति ।
17. With heros you enter the palace. वीरैः सह प्रासादम् विशसि ।= वीरैः सह प्रासादं विशसि ।
18. I stand near the lake with the boys. हृदम् समया बालैः सह तिष्ठामि । = हृदं समया बालैः सह तिष्ठामि ।
19 They see the lotuses and laugh with happiness. कमलानि पश्यन्ति च सुखेन हसन्ति ।
20. The swans move towards the bank. हंसा: तीरम् प्रति चलन्ति । =हंसा: तीरं प्रति चलन्ति ।
21.I show the swan to the boys. बालेभ्य: हंसम् दिशामि । = बालेभ्य: हंसं दिशामि ।
22. Hail the country. स्वस्ति देशाय ।
23. Enough with misery. अलम् दु:खेन । = अलं दु:खेन ।

Exercise 6

II. Translate the following into English: 1. गिरेर्ग्रामं गच्छामि । = गिरे: र्ग्रामम् गच्छामि । I go from the mountain to the village.
2. परशुना वीरोऽरीन् तुदति । = परशुना वीरः अरीन् तुदति । The hero strikes the enemies with the axe.
3. तृणस्य राशेरधः कविरिषुं विन्दति । = तृणस्य राशे: अधः कविः इषुम् विन्दति । The poet finds the arrow below the heap of grass.
4. अतिथीनां कृते दासः फलानि पचति । = अतिथीनाम् कृते दासः फलानि पचति । The servant cooks fruits for the sake of guests.
5. बाहुभ्यां तरुं लुम्पति । = बाहुभ्याम् तरुम् लुम्पति । He breaks the tree with his hands. 6. शिशू हसतः। Two babies laugh.
7. अग्निर्वनस्य वृक्षान् दहति । = अग्निः वनस्य वृक्षान् दहति । Fire burns the trees of the forest.
8. मेघानामुपरि रविश्चलति । = मेघानाम् उपरि रविः चलति । The sun moves above the clouds.
9. जलस्य बिन्दवः पात्रात् पतन्ति । The drops of water fall from a vessel.
10. इषुभिर्नृपोऽरिं जयति । = इषुभिः नृपः अरिम् जयति । The king conquers the enemy with arrows .
11. गुरोर्गृहे वसत: । = गुरो: गृहे वसत: । They two live in the house of teacher.
12. बालयो: कलिना नरो न तुष्यति ।= बालयो कलिना नर: न तुष्यति। The man is not happy with quarrel of the two boy.
13. गृहस्य पश्चात् बन्धव: सीदन्ति। The friends sit behind the house.
14. कपोत: काक: शृगालश्च पशव: भवन्ति । = कपोत: काक: शृगाल: पशव: च भवन्ति । Pigeon crow, jackal are animals.
15. मुने: समक्षं जनास्तिष्ठन्ति ।= मुने: समक्षम् जना: तिष्ठन्ति । The people sit in the presence of sages.
16.प्राक् गिरेः पश्याम इन्दुम् ।= प्राक् गिरेः पश्यामः इन्दुम् । We see the moon east of the mountain.
17. उदधिं प्रति जलानि द्रवन्ति । The waters run towards the ocean.
18. ग्रामात् बहिः शृगाला वसन्ति ।= ग्रामात् बहिः शृगालाः वसन्ति । The Jackals live outside the village.
19. सुखात् ऋते जना न माद्यन्ति ।= सुखात् ऋते जनाः न माद्यन्ति । People do not rejoice without happiness.
20. गृहात् नरः शिशून् वनं नयति ।= गृहात् नरः शिशून् वनम् नयति । The man leads the babies from the house to the forest.

III. Join the following sandhis
गुरुणा अतिथिः = गुरुणातिथिः
खादति अन्नम् = खादत्यन्नम्
किन्तु अरिः = किन्त्वरिः
इष् ऊ अस्यति = इष्वस्यति
अग्रे अश्वः =अग्रेऽश्वः
अग्रे इन्दुः = अग्र इन्दुः or अग्रयिन्दुः
बालौ इन्धनम् = बालाविन्धनम् or बाला इन्धनम्
पश्यामि इन्दुम् = पश्यामीन्दुम्

IV. Translate the following into Sanskrit
1. The poet shows trees to sage। कवि: मुनये वृक्षान् दिशति ।= कविर्मुनये वृक्षान् दिशति ।
2. The sage calls the boys. मुनिः बालान् ह्वयति । = मुनिर्बालान् ह्वयति।
3. The boys stand in front of the house. बालाः गृहस्य पुरतः तिष्ठन्ति । = बाला गृहस्य पुरतस्तिष्ठन्ति ।
4. The clouds move above the mountain. गिरेः उपरि मेघाः चलन्ति । = गिरेरुपरि मेघाश्चलन्ति।
5.The arrows of the hero pierce the enemy.वीरस्य इषवः अरिम् विध्यति = वीरस्य इषवोऽरिं विध्यति।
6. The boy falls from the tree & breaks (his) hand. बालः तरोः पतति हस्तम् लुम्पति च ।= बालस्तरोः पतति हस्तं लुम्पति च।
7.The guests have no water. अतिथीनाम् जलम् न भवति ।= अतिथीनां जलं न भवति ।
8. The servant take away the food from the fire. दासः अग्नेः अन्नम् हरति ।= दासोऽग्नेरन्नं हरति।
9. The water of the ocean is calm. उदधेः जलं शाम्यति ।= उदधेर्जलं शाम्यति ।
10. The beasts of the forest roam around the village. वनस्य पशवः ग्रामम् परितः भ्राम्यन्ति ।= वनस्य पशवो ग्रामं परितो भ्राम्यन्ति ।
11. I hide the jewels behind the tree. तरोः पश्चात् रत्नानि गुहामि । = तरोः पश्चात्रत्नानि गुहामि ।
12. The poet has a place in the presence of the king.। नृपस्य समक्षम् कवेः स्थानम् भवति । = नृपस्य समक्षं कवेः स्थानं भवति ।
13. From the babies up to the men the people are tired.शिशुभ्य आ नरान् जनाः श्राम्यन्ति = शिशुभ्य आ नरान् जनाः श्राम्यन्ति ।
14. With relatives I go from the mountain to the forest. बन्धुभि: सह गिरेः वनम् गच्छामि। = बन्धुभि: सह गिरेर्वनं गच्छामि ।
15. He carries the axe with both hands.सः हस्ताभ्याम् परुषम् वहति । = स हस्ताभ्याम् परुषं वहति ।
16. With heaps of leaves we feed the fire. पत्राणाम् राशिभिः अग्निम् पुष्यामः । = पत्राणां राशिभिरग्निं पुष्यामः ।
17. Sages worship the sun. मुनयः रविम् यजन्ति । = मुनयो रविं यजन्ति ।
18. Owing to the quarrel, the teacher leaves the village. कलिना गुरुः ग्रामम् त्यजन्ति । = कलिना गुरुर्ग्रामं त्यजन्ति ।

Exercise 7

II. Translate the following into English after breaking up the sandhis:
1. वने पशवो जीवन्ति । = वने पशवः जीवन्ति । Animals live in the forest.
2. (हे) बाला अग्नाविन्धनं क्षिपथ् । = (हे) बालाः अग्नौ इम्धनम् क्षिपथ् । O children, throw fuel into the fire.
3. कूपात् जलमानयति । = कूपात् जलम् आनयति। He brings water from the well.
4. कपोतान् गणयाम: We count the pigeons.
5. वनस्य तरुषु मुनिर्वसति। = वनस्य तरुषु मुनि: वसति। The sage lives in the trees of the forest.
6. गृहे करौ मुखं च क्षालयमि। In the house I wash (my) hands and face.
7. नृप: शरीरं रत्नैर्भूषयति। = नृप: शरीरं रत्नै: भूषयति। The king adorns the body with jewels.
8. सुखाय स्पृहयन्ति नराः । People long for happiness.
9. दु:खं धनात् उद्भवत। Misery arises from wealth.
10. पत्रै: फलानि छादयति। The fruits are covered withleaves.
11. ह्र्दे हंसा दीव्यन्ति ।= ह्र्दे हंसाः दीव्यन्ति The swans play in the lake.
12. हे गुरो बालानामाचारं निन्दसि । = हे गुरो बालान् आमाचारम् निन्दसि । O Guru, you blame the children's conduct.
13. दासाय कुसुमे धारयामि । I owe two flowers to the servants.
14. देशे वीरान् पूजयामः । In the country we worship the brave.
15. पात्रेषु कमलानि भवन्ति । Lotuses are in the vessel.
16. नरा उदधिमतिक्राम् | = नरा: उदधिम् अति-क्राम्यन्ति। People cross over the ocean.
17. वृक्षं निकषोपविशथ:। वृक्षम् निकषा उप-विशथ ।You two sit near the tree.
18. अनिलेन तरूणां पत्राण्युदधौ पतन्ति। = अनिलेन तरूणाम् पत्राणि उदधौ पतन्ति। The leaves fall into the sea due to wind.
19. गृहयोरन्नं भक्षयामि। = गृहयो: अन्नम् भक्षयामि । I eat food in two homes.
20. वनेऽरयः इषून् गूहन्ति। वने अरय: इषून् गूहन्ति। The enemies hide the arrows in the forest.
21. मेघेषिवन्दुश्चलति। = मेघेषु बिन्दुः चलति। The moon moves in the clouds.
22. अग्निस्तरू अवदहति ।= अग्निः तरू अव-दहति । The fire burns down the two trees.
23. नृपं वीरं घोषयति कविः । = नृपम् वीम् घोषयति कविः The poet declares the king to be brave.
24. बन्धूनां गृहात् नरो धनं चोरयति । = बन्धूनाम् गृहात् नरः धनम् चोरयति । The man steals wealth from the relatives' homes.
25. शिशून् सान्त्व्यामि । I console the babies.
26. मुनिर्दासं न पीडयति । मुनिः दासम् न पीडयति । The sage does not oppress the servant.


III. Translate the following into Sanskrit:
1. The enemies attack the king's palace.अरयः नृपस्य प्रासादमभिधावन्ति । = अरयो नृपस्य प्रासादमभिधावन्ति ।
2. In happiness, people are glad; in misery people are weary. सुखे जना: माद्यन्ति दु:खे जना: श्राम्यन्ति । = सुखे जना माद्यन्ति; दु:खे जना: श्राम्यन्ति ।
3. The clouds cover the sun. मेघाः रविम् छादयन्ति । = मेघा रविं छादयन्ति।
4. In both villages there is no water in the wells.उभयोः ग्रामयो: कूपेषु जलम् न भवति । उभयोर्ग्रामयो: कूपेषु जलं न भवति ।
5. On the bank of the lake the poet sits and thinks.ह्रदस्य तीरे कविः उपविशति चिन्तयति च । = ह्रदस्य तीरे कविरुपविशति चिन्तयति च ।
6. We console the servant. दासं सान्त्वयाम:।
7. Crows live in trees.काकाः वृक्षेषु जीवन्ति। = काका वृक्षेषु जीवन्ति।
8. Thou countest the drops. बिन्दून् गणयसि।
9. I arrange the jewels of the king. नृपस्य रत्नानि रचयामि।
10. The swans cross the lake from bank to bank.हंसाः ह्रदे तीरात् तीरम् अतिक्राम्यन्ति । = हंसा ह्रदे तीरात् तीरमतिक्राम्यन्ति ।
11. Servants, you do not throw leaves on the fire.हे दासा: पत्राणि अग्नौ न क्षिपथ। = हे दासा: पत्राण्यग्नौ न क्षिपथ।
12. Boys follow the teacher. बाला: गुरुम् अनुसरति।= बाला गुरुमनुसरति।
13. They sit with (their) relatives in the house.बन्धुभिः सह गृहे उपविशति \ = बन्धुभिः सह गृह उपविशति।
14. You two sit on the heap of grass.तृणस्य राशौ उपविशथ = तृणस्य राशावुपविशथ।
15. The child covers (his) face with both the hands.शिशुर्हस्ताभ्याम् मुखम गूहति। = शिशुर्हस्ताभ्यां मुखं गूहति।
16. The servant washes the vessels with the water of the well. दासः कूपस्य जलेन पात्राणिक्षालयति ।
17. The enemies are throwing arrows at the heroes. अरय इषून् वीरेषु क्षिपन्ति ।
18. We owe jewels to the two teachers. गुरुभ्यां रत्नानि धारयामः ।
19. The two boys of the teacher have no friends.गुरोः बालयोः मित्राणि न भवतः। = गुरोर्बालयोर्मित्राणि न भवतः।


Exercise 8

II. Translate the following into English after breaking up the sandhis:
1. शर्वर्याः शोभां शंसन्ति कवयः। The poets praise the glory of the night.
2. पुत्रौ नगर्याः प्रतिगच्छतः । The two sons return from town.
3. शीर्षात् नारी भारं निक्षपति । The woman puts down the load from the head.
4. मित्रे गङ्गायां गाहेते (A) । The two friends dive into the Ganges.
5. नृपते: समक्षम् राज्ञी भगिनीमापृच्छते (A)। = नृपते: समक्षं राज्ञी भगिनीम् आपृच्छते । The queen takes leave of the sister in front of the king.
6. कपिभ्यः फलानि रोचन्ते (A)। Fruits are liked by the monkeys.
7. गृहिणी मुद्रा गणयति। The housewife counts the coins.
8. विधिर्दुःखस्य हेतुर्भवति। = विधिः दुःखस्य हेतुः भवति। Fate becomes the cause of misery.
9. मेघानां रेखाकाशं भूषयति। The line of clouds adorns the sky.
10. सिंही इव जननी पुत्रान् रक्षति। = सिंहीव जननी पुत्रान् रक्षति। The mother protects the sons like a lioness.
11. सन्ध्यायां नृपतिररीन् पराजयते (A) । = सन्ध्यायाम् नृपतिः अरीन् पराजयते ।The king defeats the enemies during twilight.
12. रम्भासु काकौ परिपततः । = रम्भासु काकौ परिपततः ।The two crows fly around the banana tree.
13. बालिके कुसुमानि मृगयेते (A) । The two girls search for the flowers.
14. जनन्या आगमेन बालिका मालां रचयन्ति । जनन्याः आगमेन बालिकाः मालाम् रचयन्ति। The girls arrange the flowers due to the arrival of the mother.
15. मुनेर्वचनानि संक्षिपति कविः । = मुनेः वचनानि संक्षिपति कविः । The poet summarizes the words of the sage.
16. बलेनारीन् रघुर्विजयते (A) । = बलेन अरीन् रघुः विजयते। Raghu conquers the enemies through strength.
17. मांसं श्रृगालाय रोचते (A)। Flesh pleases the jackals.
18 दुःखे सुखे च नार्य ऋषिं मन्त्रयन्ते (A)। = दुःखे सुखे च नार्यः ऋषिं मन्त्रयन्ते (A)। Women consult the sage in sorrow and happiness.
19. मृत्यावपि वीरो न कम्पते (A)। = मृत्यौ अपि वीरः न कम्पते। Even in death the brave does not tremble.
20. धात्री शिशुं न कदापि त्यजति। The nurse never abandons the child.
21. गङ्गा वने अन्तरा वहति। The Ganges flows between the two forests.
22. नद्यास्तीरे शत्रवो युध्यन्ते (A)। = नद्याः तीरे शत्रवः युध्यन्ते । The enemies fight on the bank of the river.
23. अद्यैव नृपति: सभायां नोपविशति। = अद्य एव नृपति: सभायाम् न उपविशति। Only today king does not sit in the assembly.
24। ईश्वरस्य प्रसादेन नरा आरोग्यमधिगच्छन्ति।= ईश्वरस्य प्रसादेन नराः आरोग्यम् अधिगच्छन्ति। People attain health by the grace of the Lord.
25. तरोस्तरुं कपोता डीयन्ते। तरो: तरुम् कपोता: डीयन्ते । pigeons fly from tree to tree.


III. Translate the following into Sanskrit:
1. विधिना अरयः नगरीम् अभिधावन्ति विजयन्ति च । = विधिनारयो नगरीम् अभिधावन्ति विजयन्ति च । Through fate, the enemies attack the town and conquer.
2. अद्य अपि गङ्गाम् न पश्यामि । = अद्यापि गङ्गां न पश्यामि । Even today I do not see the Ganges.
3. राज्ञाः वाणी कविभ्यः रोचते (A) । = राज्ञा वाणी कविभ्यो रोचते । The voice of the queen pleases the poets.
4. बालस्य भाषा जनन्याः सुखस्य कारणम् । The speech of the child is the cause of the mother's happiness.
5. ऋषीणां मन्त्रान् निर्वहामः। We carry out the sacred precepts of Rsis.
6 . ग्रामम् एव परितः नराः तृणस्य राशीन् आनयन्ति। = ग्राममेव परितो नरास्तृणस्य राशीनानयन्ति। just around the village men are bringing heaps of grass.
7. विनयेन/विनयात् साधुः ईश्वरम् प्रभुम् इव पूजयति । = विनयेन/विनयात् साधुरीश्वरं प्रभुमेव पूजयति । Out of modesty the honest man worships God (as his) Lord.
8. गङ्गाया: जलानाम शब्ध: मुनिभ्य: रोचते (A) । = गङगया जलानां शब्धो मुनिभिर्रोचते। The sound of waters of the ganges pleases sages.
9. वृक्षस्य छायायाम् उपविशामि मन्ये च। I sit in the shade of the tree and think.
10. रत्नम् इव इन्दुः आकाशम् भुषयति। > रत्नमिव इन्दुराकाशं भुषयति। Like a jewel, the moon adorns the sky.
11. एवम् नृपः वदति / भाषते (A) । = एवम् नृपो वदति / भाषते । Thus speaks the king.
12. अत्र जनानाम् धनम् न अस्ति। = अत्र जनानां धनंम नास्ति। Here people have no wealth.
13. नारी मालायाः पुष्पाणि पृथिव्याम् व्यस्यति । = नारी मालायाः पुष्पाणि पृथिव्याम् व्यस्यति । The woman scatters the flowers of the garland on the earth.
14. तत्र लताः वृक्षान् पुष्पैः भूषयन्ति । = तत्र लता वृक्षान् पुष्पैर्भूषयन्ति । There the creepers adorn the trees with (their) flowers.
15. जननीम् आपृच्छामहे (A) च गुरोः गृहम् गच्छामः । जननीम् आपृच्छामहे च गुरोर्गृहं गच्छामः । We take leave of (our) mother and go to the teacher's house.
16. आकशस्य च पृथिव्याः च शोभायाः ईश्वरम् प्रभूम् शंसामः । = आकशस्य च पृथिव्याश्च शोभाया ईश्वरं प्रभूमं शंसामः । Because of the splendour of the sky and of the earth we praise God the Lord.

IV Decline fully the fllowing:
मुद्रा एकः द्वौ बहवः
प्रथमा मुद्रा मुद्रे मुद्राः
द्वितीया मुद्राम् मुद्रे मुद्राः
तृतीया मुद्रया मुद्राभ्याम् मुद्राभिः
चतुर्थी मुद्रायै मुद्राभ्याम् मुद्राभ्यः
पञ्चमी मुद्रायाः मुद्राभ्याम् मुद्राभ्यः
षष्ठी मुद्रायाः मुद्रयोः मुद्राणाम्
सप्तमी मुद्रायाम् मुद्रयोः मुद्रासु
सम्बोधनम् मुद्रे मुद्रे मुद्राः


धात्री एकः द्वौ बहवः
प्रथमा धात्री धात्र्यौ धात्र्यः
द्वितीया धात्रीम् धात्र्यौ धात्रीः
तृतीया धात्र्या धात्रीभ्याम् धात्रीभिः
चतुर्थी धात्र्यै धात्रीभ्याम् धात्रीभ्यः
पञ्चमी धात्र्याः धात्रीभ्याम् धात्रीभ्यः
षष्ठी धात्र्याः धात्र्योः धात्रीणाम्
सप्तमी धात्र्याम् धात्र्योः धात्रीषु
सम्बोधनम् धात्रि धात्र्यौ धात्र्यः


Exercise 9

II. Conjugate the नि, ईक्ष्, उप्-गम् and अभि-नि-विश् in the imperfect, active voice:
परस्मैपदे एकः द्वौ बहवः
उत्तम अनयम् अनयाव अनयाम
मध्यम अनयः अनयतम् अनयत
प्रथम अनयत् अनयताम् अनयन्

आत्मनेपदे एकः द्वौ बहवः
उत्तम ऐक्षे ऐक्षावहि ऐक्षामहि
मध्यम ऐक्षथाः ऐक्षेथाम् ऐक्षध्वम्
प्रथम ऐक्षत ऐक्षेताम् ऐक्षन्त

परस्मैपदे एकः द्वौ बहवः
प्रथम उपागच्छत् उपागच्छताम् उपागच्छन्
मध्यम उपागच्छः उपागच्छतम् उपागच्छत
उत्तम उपागच्छम् उपागच्छाव उपागच्छाम

परस्मैपदे एकः द्वौ बहवः
उत्तम अभिन्यविशम् अभिन्यविशाव अभिन्यविशाम
मध्यम अभिन्यविशः अभिन्यविशतम् अभिन्यविशत
प्रथम अभिन्यविशत् अभिन्यविशताम् अभिन्यविशन्

III. Decline fully रात्रि and चञ्चु ।
रात्रि एकः द्वौ बहवः
प्रथमा रात्रिः रात्री रात्रयः
द्वितीया रात्रिम् रात्री रात्रीः
तृतीया रात्र्या रात्रिभ्याम् रात्रिभिः
चतुर्थी रात्र्यै | रात्रये रात्रिभ्याम् रात्रिभ्यः
पञ्चमी रात्र्याः | रात्रेः रात्रिभ्याम् रात्रिभ्यः
षष्ठी रात्र्याः | रात्रेः रात्र्योः रात्रीणाम्
सप्तमी रात्र्याम् | रात्रौ रात्र्योः रात्रिषु
सम्बोधनम् रात्रे रात्री रात्रयः

चञ्चु एकः द्वौ बहवः
प्रथमा चञ्चुः चञ्चू चञ्चवः
सम्बोधनम् चञ्चो चञ्चू चञ्चवः
द्वितीया चञ्चुम् चञ्चू चञ्चूः
तृतीया चञ्च्वा चञ्चुभ्याम् चञ्चुभिः
चतुर्थी चञ्च्वै | चञ्चवे चञ्चुभ्याम् चञ्चुभ्यः
पञ्चमी चञ्च्वाः | चञ्चोः चञ्चुभ्याम् चञ्चुभ्यः
षष्ठी चञ्च्वाः | चञ्चोः चञ्च्वोः चञ्चूनाम्
सप्तमी चञ्च्वाम् | चञ्चौ चञ्च्वोः चञ्चुषु
सम्बोधनम् चञ्चो चञ्चू चञ्चवः

IV. Translate the following into English after breaking up the sandhis:
1. चञ्च्वा काको मांसमहरत् । = चञ्च्वा काकः मांसम् अहरत् ।The crow took away the meat by the beak.
2. प्रासादे पदमकरवं नृपतिं चोपागच्छम् । = प्रासादे पदम् अकरवम् नृपतिम् उपागच्छम् । I set foot in the palace and approached the king.
3. जनकस्यादेशात् बालो धेनू ग्रामात् बहिरनयत्। = जनकस्य आदेशात् बालः धेनू ग्रामत् बहिः अनयत्। On the order of the father, the boy lead the two cows outside the village .
4. दासौ घटं शीर्षे कुरुतः । The two servants place the pot on (their) head.
5. रज्ज्वा पुत्रो धेनुं कर्षति । = रज्ज्वा पुत्रः धेनुम् कर्षति ।The son pulls the cow with the rope.
6. जनन्यास्तृप्तये विनयमभिन्यविशेतां बालिके । = जनन्याः तृप्तये विनयम् अभिन्यविशेताम् बालिके ।The two girls resorted to modesty for the satisfaction of the mother.
7. हे रघो, कार्यात् न न्यवर्तथाः । = हे रघो, कार्यात् न न्यवर्तथाः ।O Raghu, you did not desist from work.
8. कुसुमात् कुसुमं रेण्वा अलिर्डीयते ।= कुसुमात् कुसुम्ं रेण्वा अलिः डीयते । The bee flies from flower to flower with the pollen.
9. शत्रूणामागमेन धूलिर्ग्रामं छादयति । = शत्रुणाम् आगमेन धूलिः ग्रामम् छादयति । The dust covers the village by the arrival of the enemies.
10. मुनी विवदेते । The two sages disagree.
11. मित्रस्य मृत्युना विषीदथः । You both are (become) sad due to (by) the death of the friend.
12. शीर्षे भारमकुर्वन् । = शीर्षे भारम् अकुर्वन् । They placed the weight on (their) head.
13. पशोर्हन्वारीनतुदत् । = पशोः हन्वा अरीन् अतुदत् । (He) struck the enemies with the jaw of the beast.
14. वनमध्यतिष्ठम् । = वनम् अध्यतिष्ठम् । I lived in the forest.
15. नृपतेः पुत्रो गुरोर्भगिनीं पर्यणयत् । = नृपतेः पुत्रः गुरोः भगिनीम् पर्यणयत् । The king's married the teacher's sister.
16. मित्रस्यागमे मतिमकरोत् । = मित्रस्य आगमे मतिम् अकरोत् । He turned his mind to the arrival of the friend.
17. भूमौ तृणस्य राशयो वर्तन्ते । = भूमौ तृणस्य राशयः वर्तन्ते | Heaps of grass are on earth.
18. साधुः कार्यं रात्रौ नारभते । = साधुः कार्यम् रात्रौ न आरभते | The sadhu (good person) doesn't begin a task at night
19. प्रभोः प्रसादेन दासास्तृप्तिमलभन्त । = प्रभोः प्रसादेन दासाः तृप्तिम् अलभन्त । The servants obtained satisfaction due to the grace of the master.
20. पुत्रो जनकं जननीं चाद्रियते । =पुत्रः जनकम् )जननीम च आद्रियते । The son respects the father and the mother
21. सभायां जनकोऽभाषत । = सभायाम् जनकः अभाषत । The father spoke in the assembly.
22. मुनिर्नारीणां नीतिमशंसत् । = मुनिः नारीणाम् नीतिम् अशंसत् । The sage praised the conduct of the women.
23. ईश्वरस्य शक्तिं दैवं मन्यन्त ॠषयः । = ईश्वरस्य शक्तिम् दैवम् मन्यन्ते ऋषयः । The sages think fate to be god's power.

V. Translate the following into Sanskrit:
1. Through God's favour he resorted to devotion.ईश्वरस्य प्रसादेन भक्तिम् अभिन्यविशत । = ईश्वरस्य प्रसादेन भक्तिमभिन्यविशत ।
2. I was always fond of jest=Jest always appealed to me. केलिः सदा मह्यम् अरोचत। = केलिः सदा मह्यमरोचत।
3. Two boys took the rope in their hands. बालौ करेषु रज्जुम् अहरताम् । = बालौ करेषु रज्जुमहरताम्
4. The girl adorned (her) body with jewels.बालिका तनुम् रत्नैः अभूषयत् । = बालिका तनुम् रत्नैरभूषयत् ।
5. Owing to the clouds and the dust cows did not eat grass.मेघैः च धूल्या च धेनवः तृणम् न अखादन् । = मेघैश्च धूल्या च धेनवस्तृणम् नाखादन् ।
6. Even for the sake of (his) friends a honest man does not desist from virtue.मित्रेभ्यः अपि साधुः गुणात् न निवर्तते । = मित्रेभ्योऽपि साधुर्गुणात् न निवर्तते ।
7. Men think Raghu (to be) a hero.नराः रघुम् वीरम् इति चिन्तयन्ति (मन्यन्ते) । = नरा रघुं वीरमिति चिन्तयन्ति (मन्यन्ते) ।
8. At night a sky without moon is like a lake without lotus.
रात्रौ आकाशः इन्दुम् विना हृदः कमलम् विना इव भवति । = रात्रौ आकाश इन्दुम् विना हृदः कमलम् विनेव भवति ।
। 9. By order of the teacher we began the work.गुरोः आदेशेन कार्यम् आरभामहि । = गुरोरादेशेन कार्यमारभामहि ।
10. He spoke thus and the people of the town praised the power of the king. एवम् अवदत् नगर्याः जनाः नृपस्य शक्तिम् अशंसन् च । = एवमवदत् नगर्या जना नृपस्य शक्तिमशंसन् च ।
11. You took the pigeons in your hand.कपोतान् करे (६-१-१०९) अकरोः । = कपोतान् करेऽकरोः ।
12. We two always disagree.सदा विवदावहे ।
13. You two obtained happiness owing to (your) modesty. विनयेन/विन्यात् सुखम् अलभेथाम् ।
14. Two friends found a treasure and carried (it) home.मित्रे निधिम् अविन्दताम् गृहम्/गृहे च अवहताम् ।


Exercise 10

II. Decline fully the following
जेतृ एकः द्वौ बहवः
प्रथमा जेत्रा जेत्रारौ जेत्रारः
सम्बोधनम् जेत्रः जेत्रारौ जेत्रारः
द्वितीया जेत्रारम् जेत्रारौ जेत्रॄन्
तृतीया जेत्र्रा जेत्रृभ्याम् जेत्रृभिः
चतुर्थी जेत्र्रे जेत्रृभ्याम् जेत्रृभ्यः
पञ्चमी जेत्रुः जेत्रृभ्याम् जेत्रृभ्यः
षष्ठी जेत्रुः जेत्र्रोः जेत्रॄणाम्
सप्तमी जेत्ररि जेत्र्रोः जेत्रृषु

स्वसृ एकः द्वौ बहवः
प्रथमा स्वसा स्वसारौ स्वसारः
सम्बोधनम् स्वसः स्वसारौ स्वसारः
द्वितीया स्वसारम् स्वसारौ स्वसॄः
तृतीया स्वस्रा स्वसृभ्याम् स्वसृभिः
चतुर्थी स्वस्रे स्वसृभ्याम् स्वसृभ्यः
पञ्चमी स्वसुः स्वसृभ्याम् स्वसृभ्यः
षष्ठी स्वसुः स्वस्रोः स्वसॄणाम्
सप्तमी स्वसरि स्वस्रोः स्वसृषु

III. Conjugate the following in the imperative mood, active voice:
परस्मैपदे एकः द्वौ बहवः
उत्तम सराणि सराव सराम
मध्यम सर सरतम् सरत
प्रथम सरतु सरताम् सरन्तु

आत्मनेपदे एकः द्वौ बहवः
उत्तम ईक्षै ईक्षावहै ईक्षामहै
मध्यम ईक्षस्व ईक्षेथाम् ईक्षध्वम्
प्रथम ईक्षताम् ईक्षेताम् ईक्षन्ताम्

IV. Translate the following into English after breaking up the sandhis:
1. रथेन जेता गच्छतु । The conqueror should go by chariot.
2. दुहितरो मातरं नमन्तु ।= दुहितरः मातरम् नमन्तु | The daughters should bow down to the mother.
3. नेत्रे स्वस्ति । Hail to the leader.
4. शठ उद्यानात् फलान्यचोरयत् । = शठः उद्यानात् फलानि अचोरयत् ।The rogue stole the fruits from the garden.
5. श्रोतारो गुरोर्वचनैस्तुष्यन्तु । = श्रोतारः गुरोः वचनै तु्ष्यन्तु ।May the hearers be pleased by the words of the Guru.
6. भ्रात्रा सह स्वसारं मृगयै । I should search for (my) sisiter with (my) brother.
7. हे बाल पितरम् आपृच्छस्व । O boy ! Take leave of your father.
8. हे नप्तर्मा विषीद ।O Grandson , Don't grieve.
9. भार्यया सह जामाता पितुर्गृहं गच्छतु । = भार्यया सह जामाता पितुः गृह्म् गच्छतु । The son-in-law should go with his wife to the father's house.
10. दातारौ ननांद्रे मालामयच्छताम् । = दातारौ ननांद्रे मालाम् अयच्छताम् । The two donors gave a garland to the sister-in-law.
11. जीवने कर्तारः एव सुखमधिगच्छन्ति । = जीवने कर्तारः एव सुखम् अधिगच्छन्ति । In life, only the doers obtain happiness.
12. नेतारमनुसराम । = नेतारम् अनुसराम । Let us follow the leader. or We should follow the leader.
13. प्रातः सविताकाशे रात्रिं पराजयते । = प्रातः सविता आकाशे रात्रिम् पराजयते ।At dawn, the sun defeats the night in the sky.
14. पुनर्मन्यध्वम् । You all should think again.
15. लोभात् शठः पापं करोति ।The rogue commits (does) sin due to greed.
16. पितरं मातरं चाद्रियामहै । We should respect the father and the mother.
17. प्रातः कार्यमारभेथाम् । = प्रातः कार्यम् आरभेथाम् ।You both should start the work at dawn.
18. हे श्रोतारः , पापात् निवर्तध्वम् ।O listeners ! desist from sin!
19. हे नप्तारौ , मित्राणामग्रेऽपि विवदेथे । = हे नप्तारौ , मित्राणाम् अग्रे अपि विवदेथे ।O grandsons! you both argue even in the presence of friends.
20. लोभात् क्रोधः प्रभवति , लोभात् कामः प्रवर्तते । लोभात् मोहश्च नाशश्च , लोभः पापस्य कारणम् ॥Anger arises from greed, Desire arises from greed, From anger (arise) delusion and destruction, Greed is the cause of sin.

V Translate the following into Sanskrit:
1. Out of anger (my) brother broke the jar. भ्राता क्रोधात् घटम् अखण्डयत् ।
2. May the donors give wealth to the people of the village. दातारः ग्रामस्य जनेभ्यः धनम् यच्छन्तु । = दातारो ग्रामस्य जनेभ्यो धनं यच्छन्तु ।
3. Let him live in the forest.वने वसतु / जीवतु।
4. See the beauty of the garden. उद्यानस्य शोभनम् पश्य । = उद्यानस्य शोभनं पश्य ।
5. You desire happiness : desist from greed.सुखम् इच्छसि : लोभात् निवर्तस्व । वा सुखाय स्पृहयसि : लोभान्निवर्तस्व ।
6. The man sat in the garden with (his) two grandsons.नरः नप्तृभ्याम् सह उद्याने असीदत्/उपाविषत् । = नरो नप्तृभ्याम् सहोद्यानेऽसीदत्/सहोद्यान उपाविषत् ।
7. Hail to the poets ! स्वस्ति कविभ्यः ।
8. O sister, do not abandon the house. हे स्वसर् , गृहम् मा त्यज ।
9. The hearers stood again in front of the palace. श्रोतारः प्रासादस्य अग्रे पुनर् अतिष्ठन् । = श्रोतारो प्रासादस्याग्रे पुनरतिष्ठन् ।
10. Through the destruction of the enemies the conqueror has freed the country. अरीणाम् नाशेन जेता देशम् अमुञ्चत् ।
11. May I always live among my brothers. अस्माकम् भ्रातृषु सदा वसानि/जीवानि ।
12. Let the leader punish the rogues.नेता शठान्( दण्डयतु ।
13. O daughters , follow (your) mother up to the house. हे दुहितरः आ गृहात् मातरम् अनुसरत । = हे दुहितरो, आगृहात् मातरमनुसरत ।
14. May sin, the cause of misery, perish! पापम् दुखस्य कारणम् नश्यतु । = पापं, दुखस्य कारणम् नश्यतु ।
15. O heroes! Fight with the enemies, follow the leader, and protect the country. हे वीराः ! अरीन् युध्यध्वम् नेतारम् अनुसरत , देशम् रक्षत च ।
Copyright © 2014 Arsha Vidya Center - Site designed and maintained by Kumud Singhal