सुबोध - संस्कृतम् (Subodha - sanskritam ) - Easy Way to Sanskrit

Saskrit.pdf | English.pdf

Saskrit.pdf | English.pdf

Saskrit.pdf | English.pdf

Saskrit.pdf | English.pdf

  • More Stories

    लुब्धः जनः (सन्धि-कार्यम् done)

    एको लुब्धो जन आसीत् । सोऽश्वेन धनस्य लाभाय ग्रामात् ग्रामं नगरात् नगरं चागच्छत् । स्वर्णाय स वनात् वनं प्राविशत् । एकदा स एकं निर्जनं वनं प्राविशत् । मध्याह्नसमये पिपासा तमपीडयत् । जलाय स एकं सरोवरमपश्यत् । सरोवरस्य मध्ये स एकं वृद्धं सिंहमपश्यत् । सिंहस्य कण्ठे मौक्तिकानां मालासीत् । स लुब्धो जनस्तां मालामपश्यत् । सिंहोऽपि तं जनमपश्यत् अवदत् च - भो: भद्रः ! अहं वृद्धोऽस्मि । न किमपि खादामि । मोक्षायानशनव्रतमाचरामि । पुण्याय मौक्तिकानां मालां तुभ्यं यच्छामीति । स लुब्धो जनोऽचिन्तयत् - स्वर्णाय यत्र तत्र सर्वत्र भ्रमामि । किन्तु स्वर्णं न विन्दामि । अधुना स्वर्णस्य मालां विन्दामि । अधुना स्वर्णस्य मालां विन्दामि। सोऽश्वात् अवारोहत् जले प्राविशत् च । तत्र पंक आसीत् । स पंकेऽमज्जत् । सिंहोऽवदत् --नास्ति भयस्य कारणम् । अहमागच्छामि त्वां पंकात् उद्धरामि शीघ्रमेव तुभ्यं मौक्तिकमालां यच्छामि च । तदा स सिंहस्तस्मात् स्थानात् तस्य जनस्य समीपमागच्छत् । सिंहस्तमखादत् । सत्यमेव कथ्यते - यत् अतिलोभो विनाशाय । अतः सर्वथाविचारितं कर्म न कर्त्तव्यम् ।

    Greedy person

    There was a greedy person. He went from village to village and from city to city for obtainment of wealth. He went from forest to forest for gold. Once he entered a desolated (dreary) forest. In the afternoon thirst pained me. He saw a lake for water. He saw an old lion in the middle of the lake.There was a pearl necklace on the lion's neck. That greedy person saw that necklace. The lion also saw that person and spoke - Oh kindful person! I am old. I can not eat at all. I am performing fasting for liberation. For meritorous act, I give you the pearl necklace. That greedy person thought - I am roaming for gold here, there everywhere. but could not find gold.Today I find the gold necklace. He descended from the horse and entered in the water.There was slushy mud. He submerged (drowned) in the slushy mud. The lion spoke - There is no reason of fear. I come and save you from the slushy mud soon and also give you the pearl necklace. Then that lion came close to that person from that place . He became scared of the lion ( fifth case used with fear). The lion ate him. It is truely said - that excess greed causes (leads to) destruction. Therefore an action without thought should never be done.

    लुब्धः जनः (सन्धि-विच्छेदः done)

    एकः लुब्धः जनः आसीत् । सः अश्वेन धनस्य लाभाय ग्रामात् ग्रामम् नगरात् नगरम् च अगच्छत् । स्वर्णाय सः वनात् वनम् प्राविशत् । एकदा सः एकम् निर्जनम् वनम् प्राविशत् । मध्याह्नसमये पिपासा तम् अपीडयत् । जलाय सः एकम् सरोवरम् अपश्यत् । सरोवरस्य मध्ये सः एकम् वृद्धम् सिंहम् अपश्यत् । सिंहस्य कण्ठे मौक्तिकानाम् माला आसीत् । सः लुब्धः जनः ताम् मालाम् अपश्यत् । सिंहः अपि तम् जनम् अपश्यत् अवदत् च - भो: भद्रः ! अहम् वृद्धः अस्मि । न् किम् अपि खादामि । मोक्षाय अनशनव्रतम् आचरामि । पुण्याय मौक्तिकानाम् मालाम् तुभ्यम् यच्छामि, इति । सः लुब्धः जनः अचिन्तयत् - स्वर्णाय यत्र तत्र सर्वत्र भ्रमामि । किन्तु स्वर्णम् न विन्दामि । अधुना स्वर्णस्य मालाम् विन्दामि । सः अश्वात् अवारोहत् जले प्राविशत् च । तत्र पंकः आसीत् । सः पंके अमज्जत् । सिंहः अवदत् -- न अस्ति भयस्य कारणम् तदा सः सिंहः तस्मात् स्थानात् तस्य जनस्य् समीपम् आगच्छत् । सिंहः तम् अखादत् । सत्यम् एव कथ्यते - यत् अतिलोभ: विनाशाय । अतः सर्वथा अविचारितम् कर्म न कर्त्तव्यम् ।

    Nouns: लुब्ध (M) - greedy; लाभ (M) - gain; स्वर्ण (N) - gold; निर्जन(N) - desolated (uninhabited); मध्याह्नसमये - in the afternoon; पिपासा (F) - thirst; मौक्तिक (N) - pearl; अनशन (M) - fasting; व्रत (N) - vow; पंक (M) - slush mud; विनाश (M) - destruction, ruin;

    Verbs: प्राविशत् - प्र+अविशत् (entered); आ+ (चर् - भ्वादि-गणः; to perform); अव् + रुह् (भ्वादि-गणः; to descend) मज्ज् - to submerge , to drown; उद् + हृ (भ्वादि-गणः) - to save; कथ्यते - it is said;

  • Copyright © 2014 Arsha Vidya Center - Site designed and maintained by Kumud Singhal